Tuesday 15 March 2016

सावित्र्युपाख्यानम् - 3.293.3

सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.3


मूलम्-
अस्ति सीमन्तिनी काचिद् दृष्टपूर्वापि वा श्रुता ।
पतिव्रता महाभागा यथेयं द्रुपदात्मजा ॥3॥


पदविभागः- 

अस्ति सीमन्तिनी काचित् दृष्टपूर्वा अपि वा श्रुता । पतिव्रता महाभागा यथा इयं द्रुपदात्मजा ॥

अन्वयः-

काचित् सीमन्तिनी, दृष्टपूर्वा श्रुता अपि वा अस्ति, यथा इयं द्रुपदात्मजा पतिव्रता महाभागा (तथा)? ॥3॥

प्रतिपदार्थः-  

काचित् = any, some
सीमन्तिनी = woman
दृष्टपूर्वा = one who is seen before
श्रुता = heard of
अपि वा = or
अस्ति = is there
यथा = as
इयं = this one (woman)
द्रुपदात्मजा = daughter of Drupada
पतिव्रता = devoted to husband
महाभागा = great virtuous woman

तात्पर्यम्-

क्या आपने द्रौपदी जैसी किसी ऐसी परम सौभाग्यवती पतिव्रता नारी को पहले कभी देखा अथवा सुना है?॥


Is there any woman, so virtuous, and husband-devoted, seen or heard of, like (this) Draupadi?

[Yudhishtira is very sad about his wife’s condition. So he asked thus. Wanting to know about people who suffered and endured difficulties, equally or more than self, gives an inner strength to a person in pain, to face the advesrsity with grace.]
1. सीमन्तिनी – स्त्री, (सीमन्तोऽस्या अस्तीति । इनिः । ङीप् ।)
2. दृष्टपूर्वा – पूर्वं दृष्टा
3. पतिव्रता, स्त्री, (पतिर्व्रतमिव धर्म्मार्थकामेषु कायवाक्मनोभिः सदोपास्योऽस्याः ।) स्वाम्यनुरक्ता । तत्पर्य्यायः । सुचरित्रा २ सती ३ साध्वी ४ । इत्यमरः ।

No comments:

Post a Comment