Sunday 13 March 2016

सावित्र्युपाख्यानम् - 3.293.1

सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.1


मूलम्- 

युधिष्ठिर उवाच॥
नात्मानमनुशोचामि नेमान् भ्रातॄन् महामुने ।
हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् ॥1॥
 

पदविभागः-
न आत्मानम् अनुशोचामि न इमान् भ्रातॄन् महामुने । हरणं च अपि राज्यस्य यथा इमां द्रुपदात्मजाम् ॥
 

अन्वयः-  
महामुने, यथा इमां द्रुपदात्मजाम् अनुशोचामि (तथा) न आत्मानम्, न इमान् भ्रातॄन्, न च अपि राज्यस्य हरणं (अनुशोचामि) ॥1॥
 

प्रतिपदार्थः- 
महामुने = O great sage
यथा = like
इमां = this
द्रुपदात्मजाम् = daughter of Drupada, Draupadī
अनुशोचामि = I bewail, mourn over, regret
आत्मानम् = (towards) myself
इमान् = these
भ्रातॄन् = brothers
न च अपि = not even
राज्यस्य = of kingdom
हरणं = seizing away
 

तात्पर्यम्-
 

युधिष्ठिर बोले- महामुने, इस द्रुपदकुमारीके लिये मुझे जैसा शोक होता, वैसा न तो अपने लिये, न इन भाइयों के लिये और न राज्य छिन जानेके लिये ही होता है॥१॥
 

Yudhishthira said- O sage, I do not regret as much for myself, nor for these brothers of mine, nor for the kingdom lost, as I regret for this daughter of Drupada.

No comments:

Post a Comment