Sunday 13 March 2016

सावित्री-उपाख्यानम्- परिचयः

        महाभारते वनपर्वणि, पतिव्रतामाहात्म्यपर्वणि त्रिनवत्यधिक-द्विशततमोऽध्याये कथैषा वर्तते। मार्कण्डेय-युधिष्ठिरसंवाद-रूपेण व्यासमुनिना कृतमिदमुपाख्यानम्। अस्य उपाख्यानस्य सपदविभागन्वय-प्रतिपदार्थ-तात्पर्यं किंचिदत्र कृतम्। आङ्ग्लेय्य-हिन्दी-भाषासु अनुवादः च दीयते अत्र। हिन्दी-अनुवादः गीताप्रेस्-पुस्तकात् गृहीतः, आङ्ग्लेय्यः मया कृतः।
        यावच्छक्ति मूलादविच्छिन्नोनुवादः, भारतीयभाषा-वाक्यनिर्मितिमनुसृत्य सरल अन्वयः, यावदपेक्षितं तावत् पदानां विशेषानामुल्लेखः, क्वचित् श्लोकस्थभावस्य विस्तरितोर्थः, सांस्कृतिकविषयानां गूढार्थानां च प्रदर्शनं अस्मिन् प्रयासे विशेषेन विहिताः।
        अविशिष्टं सर्वं बुधजनानां विमर्शन-दोषसूचनाधीनमिति सविनयं निवेदयामि।

No comments:

Post a Comment