Wednesday 16 March 2016

सावित्र्युपाख्यानम् -3.293.10


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.10

 
मूलम्-
एतेन नियमेनासीद् वर्षाण्यष्टादशैव तु ।
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ॥10॥

पदविभागः-
एतेन नियमेन आसीत् वर्षाणि अष्टादश एव तु । पूर्णे तु अष्टादशे वर्षे सावित्री तुष्टिम् अभ्यगात् ॥

अन्वयः-
एतेन नियमेन वर्षाणि अष्टादश एव तु आसीत् । अष्टादशे वर्षे पूर्णे तु सावित्री तुष्टिम् अभ्यगात् ॥10॥

प्रतिपदार्थः-
एतेन = by this
नियमेन = by the austerity
वर्षाणि = years
अष्टादश = eighteen
आसीत् = it was
अष्टादशे = when eighteenth
वर्षे = (when) year
पूर्णे तु = on completion
सावित्री = goddess sāvitrī
तुष्टिम् = happiness
अभ्यगात् = reached, attained

तात्पर्यम्-
उनको इस नियमसे रहते हुए अठारह वर्ष बीत गये । अठारहवे वर्ष पूर्ण होनेपर सावित्रीदेवी संतुष्ट हुई॥१०॥

Eighteen years passed while he thus observed the vows. When eighteenth year was complete, Sāvitrī was pleased.

No comments:

Post a Comment