Wednesday 16 March 2016

सावित्र्युपाख्यानम् - 3.293.13


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.13


मूलम्-
वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् ।
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन ॥13॥

पदविभागः-
वरं वृणीष्व अश्वपते मद्रराज यथा ईप्सितम् । न प्रमादः च धर्मेषु कर्तव्यः ते कथञ्चन ॥

अन्वयः-
अश्वपते, मद्रराज, यथा ईप्सितम् (तथा) वरं वृणीष्व । ते धर्मेषु प्रमादः च कथञ्चन न कर्तव्यः ॥13॥

प्रतिपदार्थः-
अश्वपते = O aśvapati
मद्रराज = king of Madras
यथा = as
ईप्सितम् = desired
वरं = boon
वृणीष्व = choose, select as boon
ते = your
धर्मेषु = in duties
प्रमादः च = carelessness, negligence, inattention, inadvertence, oversight
कथञ्चन = (by) any way, however/whatever way
न कर्तव्यः = should not be done

तात्पर्यम्-
मद्रराज अश्वपते, तुम्हें जो अभीष्ट हो, वह वर माँगो । धर्मों के पालन में तुम्हे कभी किसी तरह भी प्रमाद नहीं करना चाहिये॥१३॥

O Aśvapati, whatever is desired by you, please ask for. Negligence should not be done in any way, in your dharmas.

No comments:

Post a Comment