Wednesday 16 March 2016

सावित्र्युपाख्यानम् - 3.293.13


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.13


मूलम्-
वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् ।
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन ॥13॥

पदविभागः-
वरं वृणीष्व अश्वपते मद्रराज यथा ईप्सितम् । न प्रमादः च धर्मेषु कर्तव्यः ते कथञ्चन ॥

अन्वयः-
अश्वपते, मद्रराज, यथा ईप्सितम् (तथा) वरं वृणीष्व । ते धर्मेषु प्रमादः च कथञ्चन न कर्तव्यः ॥13॥

प्रतिपदार्थः-
अश्वपते = O aśvapati
मद्रराज = king of Madras
यथा = as
ईप्सितम् = desired
वरं = boon
वृणीष्व = choose, select as boon
ते = your
धर्मेषु = in duties
प्रमादः च = carelessness, negligence, inattention, inadvertence, oversight
कथञ्चन = (by) any way, however/whatever way
न कर्तव्यः = should not be done

तात्पर्यम्-
मद्रराज अश्वपते, तुम्हें जो अभीष्ट हो, वह वर माँगो । धर्मों के पालन में तुम्हे कभी किसी तरह भी प्रमाद नहीं करना चाहिये॥१३॥

O Aśvapati, whatever is desired by you, please ask for. Negligence should not be done in any way, in your dharmas.

सावित्र्युपाख्यानम् - 3.293.12



सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.12


मूलम्-
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च ।
सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव ॥12॥

पदविभागः-
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च । सर्वात्मना च मद्-भक्त्या तुष्टा अस्मि तव पार्थिव ॥

अन्वयः-
पार्थिव, तव शुद्धेन ब्रह्मचर्येण दमेन नियमेन च मद्-भक्त्या सर्वात्मना च तुष्टा अस्मि ॥12॥

प्रतिपदार्थः-
पार्थिव = O king
तव = of yours
शुद्धेन = by pure, guileless, chaste
ब्रह्मचर्येण = by the celibacy, chastity, abstinence, continence (and much more- please see commentary)
दमेन = by the self- command, self- restrain
नियमेन च = by the observance [नियम is any voluntary or self-imposed religious observance (dependent on external conditions)]
सर्वात्मना च = by the whole-hearted self, with completeness
मद् भक्त्या = by devotedness to me
तुष्टा = pleased
अस्मि = I am

तात्पर्यम्-
सावित्री बोली– राजन्, मै तुम्हारे विशुद्ध ब्रह्मचर्य, इन्द्रियसंयमः मनोनिग्रह तथा सत्पूर्णं हृदयसे की हुई भक्तिके द्वारा बहुत संतुष्ट हुई हूँ ॥१२॥

Sāvitrī said, “O king, I am satisfied by your pure ब्रह्मचर्य, self-restraint, austere observances and whole-hearted devotedness to me.

सावित्र्युपाख्यानम् - 3.293.11


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.11

 
मूलम्-
अग्निहोत्रात् समुत्थाय हर्षेण महतान्विता ।
उवाच चैनं वरदा वचनं पार्थिवं तदा ॥11॥

पदविभागः-
अग्निहोत्रात् समुत्थाय हर्षेण महता अन्विता । उवाच च एनं वरदा वचनं पार्थिवं तदा ॥

अन्वयः-
तदा वरदा (भूत्वा सावित्री) अग्निहोत्रात् समुत्थाय महता हर्षेण अन्विता एनं पार्थिवं वचनं च उवाच ॥11॥

प्रतिपदार्थः-
तदा = then
वरदा = giver of boons
अग्निहोत्रात् = from the (sacrificial) fire
समुत्थाय = having raised up
महता = with great
हर्षेण = with delight
अन्विता = having, possessing, endowed with, full of
एनं = this (lit. him)
पार्थिवं = king (obj.)
वचनं च = words
उवाच = said, spoke

तात्पर्यम्-
राजन्, तब अग्निहोत्र (की अग्नि)से प्रकट होकर (सावित्री ने) बड़े हर्षके साथ राजाको वर देनेके लिये उद्यत हो (अनुष्ठानके नियमों में स्थित) उस राजा अश्वपतिसे इस प्रकार कहा॥११॥

Then, (Sāvitri) having rasied up from the (sacrificial) fire, said these words to the king, with great delight.

सावित्र्युपाख्यानम् -3.293.10


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.10

 
मूलम्-
एतेन नियमेनासीद् वर्षाण्यष्टादशैव तु ।
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ॥10॥

पदविभागः-
एतेन नियमेन आसीत् वर्षाणि अष्टादश एव तु । पूर्णे तु अष्टादशे वर्षे सावित्री तुष्टिम् अभ्यगात् ॥

अन्वयः-
एतेन नियमेन वर्षाणि अष्टादश एव तु आसीत् । अष्टादशे वर्षे पूर्णे तु सावित्री तुष्टिम् अभ्यगात् ॥10॥

प्रतिपदार्थः-
एतेन = by this
नियमेन = by the austerity
वर्षाणि = years
अष्टादश = eighteen
आसीत् = it was
अष्टादशे = when eighteenth
वर्षे = (when) year
पूर्णे तु = on completion
सावित्री = goddess sāvitrī
तुष्टिम् = happiness
अभ्यगात् = reached, attained

तात्पर्यम्-
उनको इस नियमसे रहते हुए अठारह वर्ष बीत गये । अठारहवे वर्ष पूर्ण होनेपर सावित्रीदेवी संतुष्ट हुई॥१०॥

Eighteen years passed while he thus observed the vows. When eighteenth year was complete, Sāvitrī was pleased.

सावित्र्युपाख्यानम् - 3.293.9

सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.9


मूलम्-
हुत्वा शतसहस्रं स सावित्र्या राजसत्तमः ।
षष्ठे षष्ठे तदा काले बभूव मितभोजनः ॥9॥

पदविभागः-
हुत्वा शत-सहस्रं स सावित्र्या राज-सत्तमः । षष्ठे षष्ठे तदा काले बभूव मित-भोजनः ॥

अन्वयः-
राज-सत्तमः सः सावित्र्या शत-सहस्रं हुत्वा तदा षष्ठे षष्ठे काले मित-भोजनः बभूव ॥9॥

प्रतिपदार्थः-
राज-सत्तम = O best of kings
सः = he
सावित्र्या = with Sāvitrī (G
āyatrī mantra)
शत-सहस्रं = hundred thousand
हुत्वा = having done sacrifice
तदा = then
षष्ठे षष्ठे = in every sixth (part of day) [One day has 8 parts]
काले = in time
मित-भोजनः = one eating limited food
बभूव = became

तात्पर्यम्-


राजाओमें श्रेष्ठ अश्वपति (ब्राह्मणोंके साथ प्रतिदिन) गायत्री-मन्त्रसे एक लाख आहुति देकर (दिनके) छठे भागमें परिमित भोजन करते थे॥९॥

The best among kings, Aśvapati offered oblation of one lakh Gāyatrī mantra everyday. (Then) he ate very less food during sixth part (of the day).

सावित्र्युपाख्यानम् - 3.293.8


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.8


मूलम्-
अपत्योत्पादनार्थं स तीव्रं नियममास्थितः ।
काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः ॥8॥

पदविभागः-
अपत्य-उत्पादनार्थं सः तीव्रं नियमम् आस्थितः । काले परिमित-आहारः ब्रह्मचारी जितेन्द्रियः ॥

अन्वयः-
सः अपत्य-उत्पादनार्थं तीव्रं नियमम् आस्थितः । काले परिमित-आहारः ब्रह्मचारी जितेन्द्रियः (चासीत्)॥8॥

प्रतिपदार्थः-
सः = he
अपत्य-उत्पादनार्थं = for begetting child
तीव्रं = severe
नियमम् = rule, any voluntary or self-imposed religious observance (dependent on external conditions)
आस्थितः = practiced, followed, rosorted to
काले = in (proper) time
परिमित-आहारः = taking in very less food
ब्रह्मचारी = practising continence of chastity
जितेन्द्रियः = one whose senses are restrained

तात्पर्यम्-

अतः उन्होंने संतान की उत्पत्ति के लिये बड़े कठोर नियमों का आश्रय लिया । वे निश्चितसमयपर थोड़ासा भोजन करते और ब्रह्मचर्यका पालन करते हुए इन्द्रियोंको संयममें रखते थे॥

He practiced severe religious observances for begetting child. He took less food and remained chaste and subdued his senses.

[ब्रह्मचारी should not be thought of a person just keeping away from sexual union. ब्रह्मचर्य involves much more things related to body and mind. Dress, life-style, food, place of stay, sleep, surroundings - everything is counting. It involves subduing of senses, controlling of mind, words, acts, and following austerities, concentrating on spiritual activities etc. A ब्रह्मचारी does all activities that will help him attain a particular objective. That might be a temporary or permanent vow.

सावित्र्युपाख्यानम् - 3.293.7


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.7




मूलम्-
क्षमावाननपत्यश्च सत्यवाग् विजितेन्द्रियः ।
अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान् ॥7॥

पदविभागः-
क्षमावान् अनपत्यः च सत्यवाक् विजितेन्द्रियः । अतिक्रान्तेन वयसा सन्तापम् उपजग्मिवान् ॥

अन्वयः-
क्षमावान् अनपत्यः च सत्यवाक् विजितेन्द्रियः वयसा अतिक्रान्तेन सन्तापम् उपजग्मिवान् ॥7॥

प्रतिपदार्थः-
क्षमावान् = of enduring nature
अनपत्यः च = child-less
सत्यवाक् = truth-speaking
विजितेन्द्रियः = one who has won over or controlled senses
वयसा = by age, age-wise
अतिक्रान्तेन = by that which passed beyond, got accross
सन्तापम् = distress, torment, suffering
उपजग्मिवान् = underwent, suffered

तात्पर्यम्-
राजा अश्वपति क्षमाशील, सत्यवादी और जितेन्द्रिय होनेपर भी संतानहीन थे । बहुत अधिक अवस्था बीत जाने पर इसके कारण उनके मनमें बड़ा संताप हुआ॥७॥

(The king who was) forbearing, truthful, and of controlled passions, was but childless. By the passing of age, he underwent distress.

[Bearing no child is not only cause of pain as an individual, but also as a king, as there will be no future king. Except that he had no reason to be grieved, as he bore so many good qualities. As the time passes, man gets old, and chances of getting a child decrease.